कामाक्षीनामकारणम् – ललितोपाख्यानम्

kanchi-kamakshi-ambal--photos_6794363639_o

आद्यापि लक्ष्मीः सर्वेषां पुरतः परमेश्वरी।

विरिञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत।।

दृष्टिमात्रे तदा वाणी कमला ते उभे ततः।

प्रादुर्भूते प्रभापुञ्जपञ्जरान्तरसंस्थिते।।

श्रीदेवतां नमस्कृत्य बद्धाञ्जलिपुटे उभे।

जय कामाक्षि कामाक्षीत्युच्चैः स्तुत्वा प्रणेमतुः।।

मूर्ते च गङ्गायमुने तत्र सेवार्थमागते।

तिस्रः कोट्योर्धकोटी च या या तीर्थाधिदेवताः।।

सेवार्थं त्रिपुराम्बायाः तास्तास्सर्वाः समागताः।

तयोः कराभ्यामादाय चामरे भारतीश्रियोः।।

श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम्।

अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते।

आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ।।

संवीक्ष्या सर्वजनता विशेषेण विसिस्मये।

तदा प्रभृति कल्याणी कामाक्षीत्यभिधां दधौ।।

यदुच्चारणमात्रेण श्रीदेवी सम्प्रसीदति।

कामाक्षीति त्रयो वर्णाः सर्वमङ्गलहेतवः।।

                           ललितोपाख्यानं पञ्चत्रिंशोध्यायः, श्लोकाः 66-74

Leave a Reply

Your email address will not be published. Required fields are marked *